|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.94. अध्यायः 094
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वसुमनसे वामदेवोक्तराजधर्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वामदेव उवाच। 12-94-0x(5585)(68460)
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः।
जघन्यमाहुर्विजयं युद्धेन च नराधिप॥ 12-94-1(68461)
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति।
न हि दुर्बलमूलस्य राज्ञो लाभो विवर्धते॥ 12-94-2(68462)
यस्य स्फीतो जनपदः संपन्नप्रियराजकः।
संतुष्टः पुष्टसचिवो दृढमूलः स पार्थिवः॥ 12-94-3(68463)
यस्य योधाः सुसंतुष्टाः स्वनुरक्ताः सुपूजिताः।
अल्पेनापि स दण्डेन महीं जयति पार्थिवः॥ 12-94-4(68464)
`दण्डो हि बलवान्यत्र तत्र साम प्रयुज्यते।
प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते॥ 12-94-5(68465)
त्रयाणां विफलं कर्म यदा पश्येत भूमिपः।
रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन्॥ 12-94-6(68466)
अभिभूतो यदा शत्रुः शत्रुभिर्बलवत्तरैः।
उपेक्षा तत्र कर्तव्या वध्यता बलिनां बलम्॥ 12-94-7(68467)
दुर्बलो हि महीपालो यदा भवति भारत।
उपेक्षा तत्र कर्तव्या चतुर्णामविरोधीनि।
उपायः पञ्चमः सोऽपि सर्वेषां बलवत्तरः॥ 12-94-8(68468)
भार्गवेण च गीतानां श्लोकानां कोसलाधिप।
विज्ञाय तत्वं तत्वज्ञ तत्वतस्तत्करिष्यति॥ 12-94-9(68469)
यदि रक्षःपिशाचेन हन्यते यत्रकुत्रचित्।
उपेक्षा तत्र कर्तव्या वाच्यतां बलिनां बलम्॥ 12-94-10(68470)
दुर्बलोऽपि महीपाल शत्रूणां शत्रुमुद्धरेत्।
पादलग्नं करस्थेन कण्टकेनैव कण्टकम्॥ 12-94-11(68471)
शठानां उचिवानां च म्लेच्छानां च महीपते।
एष उक्त उपायानामुपेक्षा बलवत्तम॥ 12-94-12(68472)
अश्मना नाशयेल्लोहं लोहेनाश्मानमेव तु।
बिल्वानि वा परैर्बिल्वैर्म्लेच्छैर्म्लेच्छान्प्रसादयेत्॥ 12-94-13(68473)
दासानां च प्रदृप्तानामेतदेव हि कारयेत्।
चण्डालम्लेच्छजातीनां दण्डेनैव निवारणम्।
शठानां दुर्विनीतैश्च पूर्वमुक्तं समाचरेत्॥ 12-94-14(68474)
अन्त्याः शठाश्च सचिवास्तथा कुब्राह्मणादयः।
उपायैः पञ्चभिः साध्याश्चतुर्वर्गविरोधिनः॥ 12-94-15(68475)
पौरजानपदा यस्य स्वनुरक्ता अपीडिताः।
राष्ट्रकर्मकरा ह्येते राष्ट्रस्य च विरोधिनः॥ 12-94-16(68476)
दुर्विनीता विनीताश्च सर्वे साध्याः प्रयत्नतः।
चण्डालम्लेच्छजात्याश्च पाषण्डाश्च विकर्मिणः।
बलिनश्चाश्रमाश्चैव तथा गायकनर्तकाः॥' 12-94-17(68477)
पौरजानपदा यस्य भूतेषु च दयालवः।
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः॥ 12-94-18(68478)
प्रतापकालमधिकं यदा मन्येत चात्मनः।
तदा लिप्सेत मेधावी परभूमिधनान्युत॥ 12-94-19(68479)
भोगेषूदयमानस्य भूतेषु च दयावतः।
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः॥ 12-94-20(68480)
तक्षेदात्मानमेवं स वनं परशुना यथा।
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते॥ 12-94-21(68481)
नैव द्विषन्तो हीयन्ते राज्ञो नित्यमनिघ्नतः।
क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते॥ 12-94-22(68482)
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः।
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्॥ 12-94-23(68483)
नैवमन्येऽवजानन्ति नात्मना परितप्यते।
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति॥ 12-94-24(68484)
इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः।
उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते॥ 12-94-25(68485)
भीष्म उवाच। 12-94-26x(5586)
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः।
तथा कुर्वंस्त्वमप्येतौ लोकौजेता न संशयः॥ ॥ 12-94-26(68486)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्नवतितमोऽध्यायः॥ 94॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-94-2 नातिदृढे अनतिदृढे॥ 12-94-4 दण्डेन सैन्येन॥ 12-94-24 कृत्यशेषेण परकृत्यं कार्स्त्न्येन न समापयेत्। समापिते तु परोऽवमृन्यते स्वस्य च तापो भवतीत्यर्थः॥ 12-94-26 नृपो वसुमनाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|